|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.116. अध्यायः 116
Mahabharata - Adi Parva - Chapter Topics
माण्डव्योपाख्यानम्॥ 1 ॥ राजाज्ञया माण्डव्यस्य शूलारोपणम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-116-0x(705)(5199)
किं कृतं कर्म धर्मेण येन शापमुपेयिवान्।
कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत॥ 1-116-1(5200)
वैशम्पायन उवाच। 1-116-2x(706)
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः।
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः॥ 1-116-2(5201)
`स तीर्थयात्रां विचरन्नाजगाम यदृच्छया।
संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च।
तत्राश्रमपदं कृत्वा वसति स्म महामुनिः॥' 1-116-3(5202)
स आश्रमपदद्वारि वृक्षमूले महातपाः।
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः॥ 1-116-4(5203)
तस्य कालेन महता तस्मिंस्तपसि वर्ततः।
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः॥ 1-116-5(5204)
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ।
`तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः॥ 1-116-6(5205)
यस्मिन्नावसथे शेते स मुनिः संशितव्रतः।'
ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम॥ 1-116-7(5206)
निधाय च भयाल्लीनास्तत्रैवानागते बले।
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्॥ 1-116-8(5207)
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः।
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्॥ 1-116-9(5208)
कतरेण पथा याता दस्यवो द्विजसत्तम।
तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम्॥ 1-116-10(5209)
तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः।
न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा॥ 1-116-11(5210)
ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्।
ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च॥ 1-116-12(5211)
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति।
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्॥ 1-116-13(5212)
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति।
स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः॥ 1-116-14(5213)
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा।
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ॥ 1-116-15(5214)
शूलस्थः स तु धर्मात्मा कालेन महता ततः।
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत॥ 1-116-16(5215)
धारयामास च प्राणानृषींश्च समुपानयत्।
शूलाग्रे तप्यमानेन तपस्तेन महात्मना॥ 1-116-17(5216)
सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः।
ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत।
दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्॥ 1-116-18(5217)
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि।
येनेह समनुप्राप्तं शूले दुःखभयं महत्॥ ॥ 1-116-19(5218)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षोडशाधिकशततमोऽध्यायः॥ 116 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-116-1 कस्य कीदृशस्य॥ 1-116-6 लोप्त्रं लुप्यत इति व्युत्पत्त्या चोरापहृतं धनम्॥ 1-116-8 बले राजसैन्ये॥ 1-116-13 संयम्य चोरवन्निगृह्य॥ 1-116-14 प्रोतोऽर्पितः॥ 1-116-17 समुपानयात् स्वसमीपमिति शेषः॥ 1-116-18 दर्शयन्तः स्वानि रूपामि प्रकाशयन्तः॥ षोडशाधिकशततमोऽध्यायः॥ 116 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|